Saturday, 30 August 2025

SHREE RAM DWADASH NAAM STOTRAM

द्वादशनाम स्तोत्र
विनियोग : अस्य श्रीरामद्वादशनामस्तोत्रमहामन्त्रस्य, निटिलाक्षो भगवान् ऋषिः, अनुष्टुप्छन्दः, श्रीरामचन्द्रो देवता, श्रीरामचन्द्रप्रीत्यर्थे जपे विनियोगः ॥


ॐ प्रथमं श्रीधरं विद्याद्द्वितीयं रघुनायकम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥१॥

पञ्चमं लोकपूज्यं च षष्ठमं जानकीपतिम् ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥२॥

नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥३॥


द्वादशैतानि नामानि यः पठेच्छ्रद्धयान्वितः ।
अर्धरात्रे तु द्वादश्यां कुष्ठदारिद्र्यनाशनम् ॥४॥

अरण्ये चैव सङ्ग्रामे अग्नौ भयनिवारणम् ।
ब्रह्महत्या सुरापानं गोहत्याऽऽदि निवारणम् ॥५॥

सप्तवारं पठेन्नित्यं सर्वारिष्टनिवारणम् ।
ग्रहणे च जले स्थित्वा नदीतीरे विशेषतः ।
अश्वमेधशतं पुण्यं ब्रह्मलोके गमिष्यति ॥६॥


॥ इति श्री स्कन्दपुराणे उत्तरखण्डे श्रीउमामहेश्वरसंवादे श्रीरामद्वादशनामस्तोत्रं सम्पूर्णम् ॥


ब्रह्माण्डपुराणोक्त श्रीराम द्वादशनाम स्तोत्र  l

ॐ प्रथमं श्रीकरं नित्यं द्वितीयं दशरथात्मजम् ।
तृतीयं रामचन्द्रं च चतुर्थं रावणान्तकम् ॥१॥


पञ्चमं लोकपूज्यं च षष्ठमं जानकीप्रियम् ।
सप्तमं वासुदेवं च श्रीरामं चाष्टमं तथा ॥२॥

नवमं दूर्वादलश्यामं दशमं लक्ष्मणाग्रजम् ।
एकादशं च गोविन्दं द्वादशं सेतुबन्धनम् ॥३॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
दारिद्र्यदोषनिर्मुक्तो धनधान्यसमृद्धिकम् ॥४॥

सर्वसम्पत्प्रदं श्रेष्ठं सर्वकार्यवशीकरम् ।
दिव्यदेहमवाप्नोति दीर्घमायुष्यवर्धनम् ॥५॥


ग्रहदोषविनाशं च सर्वकार्यफलप्रदम् ।
अरण्ये देवसङ्ग्रामे महाभयनिवारणम् ॥६॥

अर्धरात्रं जपेत् स्थित्वा सर्वारिष्टनिवारणम् ।
इहजन्मसुखी भूत्वा तद्विष्णोः परमं पदम् ॥७॥

॥ इति श्रीब्रह्माण्डपुराणे ब्रह्मनारदसंवादे श्रीरामद्वादशनामस्तोत्रं सम्पूर्णम् ॥


OMOMOMOMOMOMOMOMOMOMOM


No comments:

Post a Comment

बिमारी से मुक्त करने वाला मंत्र

शीतले त्वं जगन्माता शीतले त्वं जगत्पिता शीतले त्वं जग्दधात्री । शीतलायै नमो नमः।। रोजाना 108बार जाप करने से रोग निवारण हो जाएगा