अथ नीलसरस्वती स्तोत्रम् ।
घोर रूपे महारावे, सर्वशत्रु भयंकरि ।
भक्तेभ्यो वरदे देवि त्राहिमाम् शरणागतं।।१।।
ॐ सुरासुरार्चिते देवि सिद्ध गंधर्व सेविते ।
जाॾ्यपाप हरे देवी त्राहिमाम् शरणागतं ।।२।।
जटाजूट समायुक्तं लोलजिव्हांतकारिणीं ।
द्रुत बुद्धि करे देवी त्राहिमाम् शरणागतं ।।३।।
सौम्यक्रोध धरे रूपेचंडरूपे नमोस्तुते ।
सृष्टि रूपे नमस्तुभ्यं त्राहिमाम् शरणागतं।।४।।
जड़ानाम् जडतां हंती भक्तानाम् भक्तवत्सला।
मूढतां हर मे देवी त्राहिमाम् शरणागतं ।।५।।
वं ह्रूं ह्रूं कामये देवि बलिहोमप्रिये नमः।
उग्रतारे नमोनित्यं त्राहिमाम् शरणागतं ।।६।
्बुद्धिं देहि यशोदेहि कवित्वं देहि देहि मे।
मूढत्वं हरे देवी त्राहिमाम् शरणागतं ।।७।।
इंद्रादि विलसदद्वन्द्व वंदिते करुणा मयी ।
तारे ताराधिनाथस्य त्राहिमामं शरणागतं ।।८।।
अष्टभ्यां च चतुर्दश्यां नवम्यां य: पठेन्नर:।
षण्मासे सिद्धिं वाप्नोति नात्र कार्याविचारणा।९।
मोक्षार्थि लभतेमौक्षं धनार्थी लभते धनं ।
विद्यार्थी लभते विद्यां विद्यांतर्कव्याकरणादिकं ।।१०।।
इदं स्तोत्रं पठेद्यस्तु सततं श्रद्ध्यांवित।
तस्य शत्रु क्षयंयांति महाप्रज्ञा प्रजायते।।११।।
पीडायांवापि संग्रामे जाड्येदाने तथा भये ।
ययिदं पठति स्तोत्रम् शुभं तस्य न संशय ।।१२।।
इति प्रणम्य स्तुत्वा योनिमुद्रा च प्रदर्शयेत् ।।१३।।
।।इति नील सरस्वती स्तोत्रं संपूर्णं शुभम्।।
No comments:
Post a Comment