" अथ सूर्याष्टकम् "
आदि देव नमस्तुभ्यं , प्रसीद मम् भास्कर: ।
दिवाकर नमस्तुभ्यं प्रभाकर। नमोस्तुते ।। १।।
सप्ताश्व रथमारूढं , प्रचंडं कश्यपात्मजं ।
श्वेतपद्माधरं देवम् , तं सूर्य ं प्रणमाम्यहं ।। २ ।।
लोहितं रथमारूढं , सर्वलोक पितामहम् ।
महापाप हरम् देवम् , तं सूर्यं प्रणमाम्यहं ।। ३ ।।
त्रेगुण्यश्च महाशूरं ब्रम्हा विष्णु महेश्वरं ।
महापाप हरम् देवम् तं सूर्यं प्रणमाम्यहं ।।४।।
ब्रम्हितं तेज: पुंजिचिं ,वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहं ।।५।।
बंधूकपुष्पसंकाशं , हारकुण्डल भूषितं ।
एकचक्र धरम देवम् तं सूर्यं प्रणमाम्यहं ।। ६ ।।
तं सूर्यं लोक कर्तारं , महातेज प्रदीपनम् ।
महापाप हरम् देवम् तं सूर्यं प्रणमाम्यहं ।। ७ ।।
तं सूर्यं जगतांनाथम् , ज्ञान प्रकाश मोक्षदम् ।
महापाप हरम् देवम् तं सूर्यं प्रणमाम्यहं। । ८ ।।
:- फलश्रुति :-
सूर्याष्टकम् पठेनित्यं , ग्रह पीड़ा प्रणाशणं ।
अपुत्रों लभते पुत्रं , दारिद्रो धनवान भवेद् ।। ९।।
स्त्री तेल मधु मांसानि यतजेत रवैर्दिने ।
न व्याधि शोक दारिद्रयं सूर्य लोकम स गच्छति।।१०।।
No comments:
Post a Comment